Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Bhagabat Gita Philosophy
  • Vedic Sanskrit Culture

Bhagabat Gita Philosophy

अथ श्रीमद्भगवद्गीता
advtanmoy 18/10/2018 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Vishnu

१. स भगवान् सृष्ट्वेदं जगत् तस्य च स्थिति चिकीर्षुः मरीच्यादीन् अग्रे सृष्ट्वा प्रजापतीन् प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तम् । ततः अन्यान् च सनकसनन्दनादीन् उत्पाद्य निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास ।
द्विविधो हि वेदोक्तो धर्मः – प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च जगतः स्थितिकारणम् । प्राणिनां साक्षात् अभ्युदयनिःश्रेयसहेतुः य्ः स धर्मः ब्राह्मणाद्यैः वर्णिभिः आश्रमिभिः श्रेयोर्थिभिः अनुष्ठीयमानः । दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवात् हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे प्रवधर्माने च अधर्मे जगतः स्थिति परिपिपालयिषुः सः आदिकर्ता नारायणाख्यः विष्णुः भौमस्य ब्रह्मणः ब्राह्मणत्वस्य रक्षणार्थ देवक्यां वसुदेवात् अंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्यात् वैदिको धर्मः तदधीनत्वात्
वर्णाश्रमभेदानाम् ॥ [ Sankara Bhagabat Pad]

२. स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्य अजः अव्ययः भूतानां ईश्वरः नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् स्वमायया देहवान् इव जातः इव च लोकानुग्रहं कुर्वन् लक्ष्यते ।
स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्व्यं अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश गुणाधिकैः हि गृहीतः अनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञः भगवान् गीताक्यैः सप्तभिः श्लोकशतैः उपनिबबन्ध ॥  [ Sankara Bhagabat Pad]


अथ श्रीमद्भगवद्गीता

अथ प्रथमो अध्यायः (अर्जुनविषादयोगः)

एवमुक्तो हृषीकेशो गुडाकेशेन भारत-सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् १.२४

  • सीदन्ति मम गात्राणि मुखञ्च परिशुष्यति-वेपथुश्च शरीरे मे रोमहर्षश्च जायते १.२९
  • गाण्डीवं स्त्रंसते हस्तात्त्वक्चैव परिदह्यते-न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः १.३०
  • न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च-किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा १.३२
  • कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः-धर्मे नष्टे कुलं कृत्स्नमधर्मोभिभवत्युत १.४०

अथ द्वितीयोध्यायः. (साङ्ख्ययोगः)

श्रीभगवानुवाच

  1. कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्-अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन २.२
  2. क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्य्-उपपद्यते क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप २.३

अर्जुन उवाच

कार्पण्यदोषोपहतस्वभावः -पृच्छामि त्वां धर्मसंमूढचेताः
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे -शिष्यस्तेहं शाधि मां त्वां प्रपन्नम् २.७

श्रीभगवानुवाच

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः २.११

नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः-न चैव न भविष्यामः सर्वे वयमतः परम् – २.१२

देहिनोस्मिन् यथा देहे कौमारं यौवनं जरा-तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति २.१३

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः-आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत २.१४

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ-समदुःखसुखं धीरं सोमृतत्वाय कल्पते २.१५

नासतो विद्यते भावो नाभावो विद्यते सतः-उभयोरपि दृष्टो.अन्तस्त्वनयोस्तत्त्वदर्शिभिः २.१६

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्-विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति २.१७

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः-अनाशिनोप्रमेयस्य तस्माद्युध्यस्व भारत २.१८

न जायते म्रियते वा कदाचिन्-नायं भूत्वा भविता वा न भूयः
अजो नित्यः शाश्वतोयं पुराणो-न हन्यते हन्यमाने शरीरे २.२०

वासांसि जीर्णानि यथा विहाय-नवानि गृह्णाति नरोपराणि
तथा शरीराणि विहाय जीर्णानि-अन्यानि संयाति नवानि देही २.२०

  1. अच्छेद्योयमदाह्योयमक्लेद्योशोष्य एव च-नित्यः सर्वगतः स्थाणुरचलोयं सनातनः २.२४
  2. अव्यक्तोयमचिन्त्योयमविकर्योयमुच्यते-तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि २.२५
  3. अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्-तथापि त्वं महाबाहो नैवं शोचितुमर्हसि २.२६
  4. जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च-तस्मादपरिहार्येर्थे न त्वं शोचितुमर्हसि २.२७
  5. अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत-अव्यक्तनिधनान्येव तत्र का परिदेवना २.२८

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि
धर्म्याद्धि युद्धाच्छ्रेयोन्यत्क्षत्रियस्य न विद्यते २.३१

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम् २.४१

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः
वेदवादरताः पार्थ नान्यदस्तीति वादिनः २.४२

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति २.४३

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते २.४४

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन – निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् २.४५

  1. यावानर्थ उदपाने सर्वतः संप्लुतोदके- तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः २.४६
  2. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन -मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि २.४७
  3. योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय -सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते -२.४८

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः २.४९

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् २.५०
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः
जन्मबन्धविनिर्मुक्ताः पदं गच्छ्हन्त्य्
अनामयम् २.५१

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च २.५२

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला- समाधावचला बुद्धिस्तदा योगमवाप्स्यसि २.५३

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् २.५४

श्रीभगवानुवाच

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते २.५५

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते २.५६

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता २.५७

यदा संहरते चायं कूर्मोङ्गानीव सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता २.५८

विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते २.५९

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः २.६०

तानि सर्वाणि संयम्य युक्त आसीत मत्परः
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता २.६१

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते
सङ्गात्सञ्जायते कामः कामात्क्रोधोभिजायते २.६२

क्रोधाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति २.६३

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति २.६४

प्रसादे सर्वदुःखानां हानिरस्योपजायते
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते २.६५

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् २.६६.

इन्द्रियाणां हि चरतां यन्मनोनुविधीयते
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि २.६७

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता २.६८
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः २.६९

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत्
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी २.७०

विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः-निर्ममो निरहंकारः स शान्तिमधिगच्छ्हति २.७१

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति-स्थित्वास्यामन्तकालेपि ब्रह्मनिर्वाणमृच्छति २.७२

अथ तृतीयोध्यायः. (कर्मयोगः)

अर्जुन उवाच

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे
तदेकं वद निश्चित्य येन श्रेयोहमाप्नुयाम् ३.२

श्रीभगवानुवाच

लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ-ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ३.३

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोश्नुते-न च संन्यसनादेव सिद्धिं समधिगच्छति ३.४

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्-कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ३.५

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्-इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ३.६

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ३.८

यज्ञार्थात्कर्मणोन्यत्र लोकोयं कर्मबन्धनः
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ३.९

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ३.१३

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ३.१४

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ३.१५

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ३.१६

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ३.३०

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्- स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ३.३५

अर्जुन उवाच

अथ केन प्रयुक्तोयं पापं चरति पूरुषः-अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ३.३६

श्रीभगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ३.३७

धूमेनाव्रियते वन्हिर्यथादर्शो मलेन च
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ३.३८

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरुपेण कौन्तेय दुष्पूरेणानलेन च ३.३९

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ३.४०

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ३.४१

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ३.४२

अथ चतुर्थोध्यायः-(ज्ञानकर्मसंन्यासयोगः)

श्रीभगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् -विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत्४.१

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः-स कालेनेह महता योगो नष्टः परंतप ४.२

अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः-कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ४.४

श्रीभगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन -तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ४.५

अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन्-प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ४.६

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत- अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ४.७

परित्राणाय साधूनां विनाशाय च दुष्कृताम् -धर्मसंस्थापनार्थाय संभवामि युगे युगे ४.८

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ४.१३

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा
इति मां योभिजानाति कर्मभिर्न स बध्यते ४.१४

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ४.१७

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः
कर्मण्यभिप्रवृत्तोपि नैव किंचित्करोति सः ४.२०

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ४.२१

यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ४.२२

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ४.२३

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा -हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ४.२४

दैवमेवापरे यज्ञं योगिनः पर्युपासते- ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुव्हति ४.२५

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुव्हति
शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुव्हति ४.२६

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे
आत्मसंयमयोगाग्नौ जुव्हति ज्ञानदीपिते ४.२७

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ४.२८

अपाने जुव्हति प्राणं प्राणेपानं तथापरे
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ४.२९

अपरे नियताहाराः प्राणान् प्राणेषु जुव्हति
सर्वेप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ४.३०

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्
नायं लोकोस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ४.३१

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे
कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ४.३२

श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ४.३९

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ४.४१

अथ पञ्चमोध्यायः. (संन्यासयोगः)

अर्जुन उवाच

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ५.१

श्रीभगवानुवाच

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ५.२

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते
५.३

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्
५.४

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि
गम्यते
एकं सांख्यं च योगं च यः पश्यति स पश्यति ५.५

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ५.६

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ५.७

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्
पश्यञ्शृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन् स्वपञ्
श्वसन् ५.८

प्रलपन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ५.९

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ५.१०

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये
५.११
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति
नैष्ठिकीम्
अयुक्तः कामकारेण फले सक्तो निबध्यते ५.१२

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ५.१३

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ५.१४

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ५.१५

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ५.१६

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ५.१७

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ५.१८

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते
स्थिताः ५.१९

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि
स्थितः ५.२०

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ५.२१

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ५.२२

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः
५.२३

योन्तःसुखोन्तरारामस्तथान्तर्ज्योतिरेव यः
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोधिगच्छति ५.२४

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ५.२५

कामक्रोधवियुक्तानां यतीनां यतचेतसाम्
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ५.२६

स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे
भ्रुवोः
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ५.२७

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ५.२८

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति
५.२९

अथ षष्ठोध्यायः. (आत्मसंयमयोगः)

श्रीभगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ६.१

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ६.२

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
योगारूढस्य तस्यैव शमः कारणमुच्यते ६.३

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ६.४

उद्धरेदात्मनात्मानं नात्मानमवसादयेत्
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
६.५

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्६.६

जितात्मनः प्रशान्तस्य परमात्मा समाहितः
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ६.७

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ६.८

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ६.९

योगी युञ्जीत सततमात्मानं रहसि स्थितः-एकाकी यतचित्तात्मा निराशीरपरिग्रहः ६.१०

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः-नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ६.११

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः-उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ६.१२

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः-संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ६.१३

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः-मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ६.१४

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु- युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ६.१७

यदा विनियतं चित्तमात्मन्येवावतिष्ठते
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ६.१८
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ६.१९

यत्रोपरमते चित्तं निरुद्धं योगसेवया
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ६.२०

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यम्
अतीन्द्रियम्
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ६.२१

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं
ततः
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ६.२२

तं विद्याद्.ह्दुःखसंयोगवियोगं योगसंज्ञितम्
स निश्चयेन योक्तव्यो योगोनिर्विण्णचेतसा ६.२३

सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ६.२४

शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्
६.२५

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्६.२६

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ६.२७

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते
६.२८

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि-ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ६.२९

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति-तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ६.३०

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः-सर्वथा वर्तमानोपि स योगी मयि वर्तते ६.३१

आत्मौपम्येन सर्वत्र समं पश्यति योर्जुन-सुखं वा यदि वा दुःखं स योगी परमो मतः६.३२

अर्जुन उवाच

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ६.३४

श्रीभगवानुवाच

असञ्शयं महाबाहो मनो दुर्निग्रहं चलम्
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ६.३५
असंयतात्मना योगो दुष्प्राप इति मे मतिः
वश्यात्मना तु यतता शक्योवाप्तुमुपायतः ६.३६

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ६.४०

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः
शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायते ६.४१

अथवा योगिनामेव कुले भवति धीमताम्
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ६.४२

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ६.४३

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ६.४४

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ६.४५

तपस्विभ्योधिको योगी ज्ञानिभ्योपि मतोधिकः
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ६.४६

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ६.४७

अथ सप्तमोध्यायः. (ज्ञानविज्ञानयोगः)

श्रीभगवानुवाच

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ७.३

भूमिरापोनलो वायुः खं मनो बुद्धिरेव च
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ७.४
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत्७.५

एतद्योनीनि भूतानि सर्वाणीत्युपधारय
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ७.६

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ७.७

रसो.अहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ७.८

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ७.९

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ७.१०

बलं बलवतां चाहं कामरागविवर्जितम्
धर्माविरुद्धो भूतेषु कामो.अस्मि भरतर्षभ ७.११.

ये चैव सात्विका भावा राजसास्तामसाश्च ये
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ७.१२

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ७.१३

दैवी ह्येषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ७.१४

चतुर्विधा भजन्ते मां जनाः सुकृतिनोर्जुन-आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ७.१६

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते -प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः ७.१७

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते -वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ७.१९

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेन्यदेवताः-तं तं नियममास्थाय प्रकृत्या नियताः स्वया ७.२०

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ७.२१

स तया श्रद्धया युक्तस्तस्याराधनमीहते
लभते च ततः कामान्मयैवः विहितान् हि तान् ७.२२

नाहं प्रकाशः सर्वस्य योगमायासमावृतः-मूढोयं नाभिजानाति लोको मामजमव्ययम् ७.२५

वेदाहं समतीतानि वर्तमानानि चार्जुन-भविष्याणि च भूतानि मां तु वेद न कश्चन ७.२६

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः-प्रयाणकालेपि च मां ते विदुर्युक्तचेतसः ७.३०

अथ अष्टमोध्यायः. (अक्षरब्रह्मयोगः)

श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोध्यात्ममुच्यते
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ८.३

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्
अधियज्ञोहमेवात्र देहे देहभृतां वर ८.४

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ८.५

यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्
तं तमेवैति कौन्तेय सदा तद्भावभावितः ८.६

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ८.७

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ८.८

कविं पुराणमनुशासितारं
अणोरणीयांसमनुस्मरेद्यः
सर्वस्य धातारमचिन्त्यरूपं
आदित्यवर्णं तमसः परस्तात्८.९

प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ८.१०

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ८.११

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च -मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ८.१२

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् -यः प्रयाति त्यजन् देहं स याति परमां गतिम् ८.१३

अनन्यचेताः सततं यो मां स्मरति नित्यशः -तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ८.१४

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ८.१५

आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ८.१६

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रान्तां ते.अहोरात्रविदो जनाः ८.१७

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ८.१८

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते
रात्र्यागमेवशः पार्थ प्रभवत्यहरागमे ८.१९

परस्तस्मात्तु भावोन्योव्यक्तोव्यक्तात्सनातनः
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ८.२०

अव्यक्तोक्षर इत्युक्तस्तमाहुः परमां गतिम्
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ८.२१

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ८.२२

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ८.२३

अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम्
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ८.२४
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ८.२५

अथ नवमोध्यायः. (राजविद्याराजगुह्ययोगः)

श्रीभगवानुवाच

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ९.४

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ९.६

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ९.७

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्९.८

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः-नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ९.१४

  1. ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते-एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ९.१५
  2. अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्-मन्त्रो.अहमहमेवाज्यमहमग्निरहं हुतम् ९.१६
  3. पिताहमस्य जगतो माता धाता पितामहः-वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ९.१७
  4. गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्-प्रभवः प्रलयः स्थानं निधानं बीजमव्यम् ९.१८

तपाम्यहमहं वर्षं निगृण्हाम्युत्सृजामि च
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ९.१९

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते
ते पुण्यमासाद्य सुरेन्द्रलोकं
अश्नन्ति दिव्यान् दिवि देवभोगान् ९.२०

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ९.२१

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्
९.२२

येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः
तेपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ९.२३

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ९.२४

यान्ति देवव्रता देवान् पितृन् यान्ति पितृव्रताः
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् ९.२५

पत्रं पुष्पं फलं तोयं यो मे भक्त्याप्रयच्छति
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः९.२६

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ९.२७

अपि चेत्सुदुराचारो भजते मामनन्यभाक्
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः९.३०

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिंनिगच्छ्हति
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ९.३१

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः- ९.३४

अथ दशमोध्यायः. (विभूतियोगः)

श्रीभगवानुवाच

भूय एव महाबाहो शृणु मे परमं वचः
यत्तेहं प्रीयमाणाय वक्ष्यामि हितकाम्यया १०.१

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः १०.६

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः
सोविकम्पेन योगेन युज्यते नात्र संशयः १०.७

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः १०.८

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च
१०.९

अर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् -पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् १०.१२

श्रीभगवानुवाच

  1. हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः-प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे१०.१९
  2. अहमात्मा गुडाकेश सर्वभूताशयस्थितः-अहमादिश्च मध्यं च भूतानामन्त एव च १०.२०
  3. आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्-मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी १०.२१
  4. अथवा बहुनैतेन किं ज्ञातेन तवार्जुन -विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् १०.४२

अथैकादशोध्यायः. (विश्वरूपदर्शनयोगः)

श्रीभगवानुवाच

पश्य मे पार्थ रूपाणि शतशोथ सहस्त्रशः-नानाविधानि दिव्यानि नानावर्णाकृतीनि च ११.५

अर्जुन उवाच

पश्यामि देवांस्तव देव देहे-सर्वांस्तथा भूतविशेषसंघान्
ब्रह्माणमीशं कमलासनस्थं-ऋषींश्च सर्वानुरगांश्च दिव्यान् ११.१५

श्रीभगवानुवाच

मया प्रसन्नेन तवार्जुनेदं -रूपं परं दर्शितमात्मयोगात्
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ११.४७

न वेद यज्ञाध्ययनैर्न दानैः -न च क्रियाभिर्न तपोभिरुग्रैः
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ११.४८

अथ द्वादशोध्यायः. (भक्तियोगः)

अर्जुन उवाच

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते-ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः १२.१

श्रीभगवानुवाच

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते
श्रद्धया परयोपेताः ते मे युक्ततमा मताः १२.२

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयाः
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः १२.४

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः
अनन्येनैव योगेन मां ध्यायन्त उपासते १२.६

तेषां अहं समुद्धर्ता मृत्युसंसारसागरात्
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् १२.७

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः १२.८

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्
अभ्यासयोगेन ततो मामिछाप्तुं धनंजय १२.९

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च
निर्ममो निरहंकारः समदुःखसुखः क्षमी १२.१३

  1. संतुष्टः सततं योगी यतात्मा दृढनिश्चयः -मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे -प्रियः १२.१४
  2. यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः-हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः-१२.१५
  3. अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः-सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः-१२.१६
  4. यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति-शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः-१२.१७
  5. समः शत्रौ च मित्रे च तथा मानापमानयोः-शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः १२.१८
  6. तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित्- अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः १२.१९

 

अथ त्रयोदशोध्यायः.-(क्षेत्रक्षेत्रज्ञविभागयोगः)

श्रीभगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः १३.२

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम १३.३

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः १३.५

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः १३.६

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् १३.७

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः १३.८

इन्द्रियार्थेषु वैराग्यमनहंकार एव च
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् १३.९

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु १३.१०

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि १३.११

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा १३.१२

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते १३.१३

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति १३.१४

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च १३.१५

बहिरन्तश्च भूतानामचरं चरमेव च
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् १३.१६

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च १३.१७

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् १३.१८

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं सनासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते १३.१९

प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि -विकाराञ्श्च गुणांश्चैव विद्धि प्रकृतिसंभवान् १३.२०

कार्य कारण कर्तृत्वे हेतुः प्रकृतिरुच्यते -पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते १३.२१

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् -कारणं गुणसङ्गोस्य सदसद्योनिजन्मसु १३.२२

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषः परः १३.२३

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह-सर्वथा वर्तमानोपि न स भूयोभिजायते १३.२४

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना -अन्ये सांख्येन योगेन कर्मयोगेन चापरे १३.२५

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते
तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः १३.२६

यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ १३.२७

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति १३.२८

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् १३.२९

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः
यः पश्यति तथात्मानमकर्तारं स पश्यति १३.३०

यदा भूतपृथग्भावमेकस्थमनुपश्यति
तत एव च विस्तारं ब्रह्म संपद्यते तदा १३.३१

  1. अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः-शरीरस्थोपि कौन्तेय न करोति न लिप्यते १३.३२
  2. यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते-सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते १३.३३
  3. यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः-क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत १३.३४

 

अथ चतुर्दशोध्यायः. (गुणत्रयविभागयोगः)

श्रीभगवानुवाच

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्य् अहम्
संभवः सर्वभूतानां ततो भवति भारत १४.३

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता १४.४

  • सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः-निबध्नन्ति महाबाहो देहे देहिनमव्ययम् १४.५
  • तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्-सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ १४.६
  • रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्-तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् १४.७
  • तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्-प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत १४.८
  • सत्त्वं सुखे संजयति रजः कर्मणि भारत-ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत १४.९
  • रजस्तमश्चाभिभूय सत्त्वं भवति भारत-रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा १४.१०
  • सर्वद्वारेषु देहेस्मिन् प्रकाश उपजायते ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत १४.११

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ १४.१२

अप्रकाशोप्रवृत्तिश्च प्रमादो मोह एव च
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन १४.१३

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्
तदोत्तमविदां लोकानमलान् प्रतिपद्यते १४.१४

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते
तथा प्रलीनस्तमसि मूढयोनिषु जायते १४.१५

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् १४.१६

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च
प्रमादमोहौ तमसो भवतोज्ञानमेव च १४.१७

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणवृत्तिस्था अधो गच्छ्हन्ति तामसाः १४.१८

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति
गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छ्हति १४.१९

गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्
जन्ममृत्युजरादुःखैर्विमुक्तोमृतमश्नुते १४.२०

श्रीभगवानुवाच

  • प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव-त द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति १४.२२
  • उदासीनवदासीनो गुणैर्यो न विचाल्यते-गुणा वर्तन्त इत्येव योवतिष्ठति नेङ्गते १४.२३
  • समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः-तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः १४.२४
  • मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः-सर्वारम्भपरित्यागी गुणातीतः स उच्यते १४.२५
  • मां च योव्यभिचारेण भक्तियोगेन सेवते-स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते १४.२६
  • ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च-शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च १४.२७

 

अथ पञ्चदशोध्यायः. (पुरुषोत्तमयोगः)

श्रीभगवानुवाच

  • ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्यम्-छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्१५.१
  • अधश्चोर्ध्वं प्रसृतास्तस्य शाखा – गुणप्रवृद्धा विषयप्रवालाः
    अधश्च मूलान्यनुसंततानि-कर्मानुबन्धीनि मनुष्यलोके १५.२
  • न रूपमस्येह तथोपलभ्यते – नान्तो न चादिर्न च संप्रतिष्ठा
    अश्वत्थमेनं सुविरूढमूलं- असङ्गशस्त्रेण दृढेन छित्त्वा १५.३
  • ततः पदं तत्परिमार्गितव्यं-यस्मिन् गता न निवर्तन्ति भूयः
    तमेव चाद्यं पुरुषं प्रपद्ये-यतः प्रवृत्तिः प्रसृता पुराणी १५.४
  • निर्मानमोहा जितसङ्गदोषा- अध्यात्मनित्या विनिवृत्तकामाः
    द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः- गच्छ्हन्त्यमूढाः पदमव्ययं तत्१५.५

न तद्भासयते सूर्यो न शशाङ्को न पावकः-यद्गत्वा न निवर्तन्ते तद्धाम परमं मम १५.६

ममैवांशो जीवलोके जीवभूतः सनातनः – मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति १५.७

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च – अधिष्ठाय मनश्चायं विषयानुपसेवते १५.९

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्-विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः १५.१०
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्-यतन्तोप्यकृतात्मानो नैनं पश्यन्त्यचेतसः १५.११

यदादित्यगतं तेजो जगद्भासयतेखिलम् – यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् १५.१२

गामाविश्य च भूतानि धारयाम्यहमोजसा – पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः १५.१३

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः – प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् १५.१४

सर्वस्य चाहं हृदि संनिविष्टो-मत्तः स्मृतिर्ज्ञानमपोहनं च

वेदैश्च सर्वैरहमेव वेद्यो-वेदान्तकृद्वेदविदेव चाहम् १५.१५

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च-क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते १५.१६

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः-यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः १५.१७

यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः-अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः १५.१८

अथ षोडशोध्यायः (दैवासुरसंपद्विभागयोगः)

श्रीभगवानुवाच

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् १६.१

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् १६.२

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता
भवन्ति संपदं दैवीमभिजातस्य भारत १६.३

दम्भो दर्पोभिमानश्च क्रोधः पारुष्यमेव च
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् १६.४

दैवी संपद्विमोक्षाय निबन्धायासुरी मता-मा शुचः संपदं दैवीमभिजातोसि पाण्डव १६.५

द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर एव च
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु १६.६
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः
न शौचं नापि चाचारो न सत्यं तेषु विद्यते १६.७

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
अपरस्परसंभूतं किमन्यत्कामहैतुकम् १६.८

एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोहिताः १६.९

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः
मोहाद्गृहीत्वासद्ग्राहान् प्रवर्तन्तेशुचिव्रताः १६.१०

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः
कामोपभोगपरमा एतावदिति निश्चिताः १६.११

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् १६.१२

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्
इदमस्तीदमपि मे भविष्यति पुनर्धनम् १६.१३

असौ मया हतः शत्रुर्हनिष्ये चापरानपि
ईश्वरो.अहमहं भोगी सिद्धोहं बलवान् सुखी१६.१४

आढ्योभिजनवानस्मि कोन्योस्ति सदृशो मया
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः १६.१५

अनेकचित्तविभ्रान्ता मोहजालसमावृताः
प्रसक्ताः कामभोगेषु पतन्ति नरकेशुचौ १६.१६

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् १६.१७

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः
मामात्मपरदेहेषु प्रद्विषन्तोभ्यसूयकाः १६.१८

तानहं द्विषतः क्रुरान् संसारेषु नराधमान्
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु १६.१९

आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् १६.२०

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्१६.२१

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् १६.२२

  • यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः-न स सिद्धिमवाप्नोति न सुखं न परां गतिम् १६.२३
  • तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ-ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि १६.२४

 

अथ सप्तदशोध्यायः.(श्रद्धात्रयविभागयोगः)

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः -तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः १७.१

श्रीभगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा
सात्त्विकी राजसी चैव तामसी चेति तां शृणु १७.२

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत
श्रद्धामयोयं पुरुषो यो यच्छ्रद्धः स एव सः १७.३

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः
प्रेतान् भूतगणाञ्श्चान्ये यजन्ते तामसा जनाः १७.४

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः १७.५

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः
मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् १७.६

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु १७.७

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः १७.८

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः १७.९

यातयामं गतरसं पूति पर्युषितं च यत्
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् १७.१०

अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः १७.११

अभिसंधाय तु फलं दम्भार्थमपि चैव यत्
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् १७.१२

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते १७.१३

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते १७.१४

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते १७.१५

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते १७.१६
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते १७.१७

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् १७.१८

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् १७.१९

दातव्यमिति यद्दानं दीयतेनुपकारिणे
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् १७.२०

यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् १७.२१

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् १७.२२

  • ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः-ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा १७.२३
  • तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः-प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् १७.२४

तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः १७.२५

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते १७.२६

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते
कर्म चैव तदर्थीयं सदित्येवाभिधीयते १७.२७

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्
असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह १७.२८

अथाष्टादशोध्यायः. (मोक्षसंन्यासयोगः)

अर्जुन उवाच

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्-त्यागस्य च हृषीकेश पृथक्केशिनिषूदन १८.१

श्रीभगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः- सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः १८.२

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म न त्याज्यमिति चापरे १८.३

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः १८.४

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् १८.५

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् १८.६

नियतस्य तु संन्यासः कर्मणो नोपपद्यते
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः १८.७

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्
१८.८

कार्यमित्येव यत्कर्म नियतं क्रियतेर्जुन
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः १८.९

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः १८.१०

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते १८.११

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् १८.१२

पञ्चैतानि महाबाहो कारणानि निबोध मे
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् १८.१३

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् १८.१४

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः १८.१५

तत्रैवं सति कर्तारमात्मानं केवलं तु यः
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः १८.१६

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते
हत्वा.अपि स इमांल्लोकान्न हन्ति न निबध्यते १८.१७

  • ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना-करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः १८.१८
  • ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः-प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि १८.१९

सर्वभूतेषु येनैकं भावमव्ययमीक्षते
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् १८.२०

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् १८.२१

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम्
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् १८.२२

नियतं सङ्गरहितमरागद्वेषतः कृतम्
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते १८.२३

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः
क्रियते बहुलायासं तद्राजसमुदाहृतम् १८.२४

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते १८.२५

मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते १८.२६

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोशुचिः
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः १८.२७

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोलसः
विषादी दीर्घसूत्री च कर्ता तामस उच्यते १८.२८

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय १८.२९

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी १८.३०

यया धर्ममधर्मं च कार्यं चाकार्यमेव च
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी १८.३१

अधर्मं धर्ममिति या मन्यते तमसावृता
सर्वार्थान् विपरीताञ्श्च बुद्धिः सा पार्थ तामसी १८.३२

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी १८.३३

यया तु धर्मकामार्थान् धृत्या धारयतेर्जुन
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी १८.३४

यया स्वप्नं भयं शोकं विषादं मदमेव च
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी १८.३५

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छ्हति १८.३६

यत्तदग्रे विषमिव परिणामेमृतोपमम्
तत्सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् १८.३७

विषयेन्द्रियसञ्योगाद्यत्तदग्रेमृतोपमम्
परिणामे विषमिव तत्सुखं राजसं स्मृतम् १८.३८

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् १८.३९
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर् गुणैः १८.४०

  • ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः १८.४१
  • शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् १८.४२
  • शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् १८.४३
  • कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् १८.४४
  • स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु १८.४५
  • श्रेयान् स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात्-स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् १८.४७
  • सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्-सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः १८.४८

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति १८.४९

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा १८.५०

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च १८.५१

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः १८.५२

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते १८.५३

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति-समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् १८.५४

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः-बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव १८.५७

ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति-भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया १८.६१

तमेव शरणं गच्छ सर्वभावेन भारत-तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् १८.६२

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु-मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे १८.६५

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज-अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः १८.६६

इदं ते नातपस्काय नाभक्ताय कदाचन-न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति १८.६७

अर्जुन उवाच

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत -स्थितोस्मि गतसंदेहः करिष्ये वचनं तव १८.७३


 

Tags: Gita PHILOSOPHY

Post navigation

Previous: Defence in South-Asian Context
Next: Investigation and Prosecution of Economic Offence in India

Related Stories

Manu Smriti , Manu Samhita, Manusmriti
  • Vedic Sanskrit Culture

Manusmriti Chapter 1 Verses 1–30: Creation, Cosmology and Consciousness

advtanmoy 26/08/2026
Acharya Narad
  • Vedic Sanskrit Culture

Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)

advtanmoy 15/02/2026
The Story of Varanasi (1993–2000): A Saga of the Celebration of Life
  • Vedic Sanskrit Culture

The Story of Varanasi (1993–2000): A Saga of the Celebration of Life

advtanmoy 22/01/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.