Explanation of Savita and Savitri as per Gopatha Brahmana
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Explanation of Savita and Savitri as per Gopatha Brahmana
ओं नमोऽथर्ववेदाय नमः
गोपथब्राह्मण
भोः कः सविता का सावित्री ॥ ३२ ॥
(१,१.३३ ) मन एव सविता वाक्सावित्री
(१,१.३३ ) यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन् मन इति
(१,१.३३ ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ) अग्निरेव सविता पृथिवी सावित्री
(१,१.३३ ) यत्र ह्येवाग्निस्तत्पृथिवी यत्र वै पृथिवी तदग्निरिति
(१,१.३३ ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ) वायुरेव सवितान्तरिक्षं सावित्री
(१,१.३३ ) यत्र ह्येव वायुस्तदन्तरिक्षं यत्र वा अन्तरिक्षं तद्वायुरिति
(१,१.३३ ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ) आदित्य एव सविता द्यौः सावित्री
(१,१.३३ ) यत्र ह्येवादित्यस्तद्द्यौर्यत्र वै द्यौस्तदादित्य इति
(१,१.३३ ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ) चन्द्रमा एव सविता नक्षत्राणि सावित्री
(१,१.३३ ) यत्र ह्येव चन्द्रमास्तन्नक्षत्राणि यत्र वै नक्षत्राणि तच्चन्द्रमा इति
(१,१.३३ ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ) अहरेव सविता रात्रिः सावित्री
(१,१.३३ ) यत्र ह्येवाहस्तद्रात्रिर्यत्र वै रात्रिस्तदहरिति
(१,१.३३ ) एते द्वे योनी एक मिथुनम्
(१,१.३३ ) उष्णमेव सविता शीतं सावित्री
(१,१.३३ ) यत्र ह्येवोष्णं तच्छीतं यत्र वै शीतं तदुष्णमिति
(१,१.३३ ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ) अभ्रमेव सविता वर्षं सावित्री
(१,१.३३ ) यत्र ह्येवाभ्रं तद्वर्षं यत्र वै वर्षं तदभ्रमिति
(१,१.३३ ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ) विद्युदेव सविता स्तनयित्नुः सावित्री
(१,१.३३श्) यत्र ह्येव विद्युत्तत्स्तनयित्नुर्यत्र वै स्तनयित्नुस्तद्विद्युदिति
(१,१.३३ अ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ब्) प्राण एव सवितान्नं सावित्री
(१,१.३३ च्) यत्र ह्येव प्राणस्तदन्नं यत्र वा अन्नं तत्प्राण इति
(१,१.३३ द्) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ए) वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स्सेन्तेन्चे एन्द्मर्केर्]
(१,१.३३ f) यत्र ह्येव वेदास्तच्छन्दांसि यत्र वै छन्दांसि तद्वेदा इति
(१,१.३३ ग्) एते द्वे योनी एकं मिथुनम्
(१,१.३३ ह्) यज्ञ एक सविता दक्षिणाः सावित्री
(१,१.३३ इ) यत्र ह्येव यज्ञस्तद्दक्षिणा यत्र वै दक्षिणास्तद्यज्ञ इति
(१,१.३३ ज्) एते द्वे योनी एकं मिथुनम्
तत्सवितुर्वरेण्यमिति सावित्र्याः प्रथमः पादः
(१,१.३४ ) पृथिव्यर्चं समदधात्
(१,१.३४ ) ऋचाग्निम्
(१,१.३४ ) अग्निना श्रियम्
(१,१.३४ ) श्रिया स्त्रियम्
(१,१.३४ ) स्त्रिया मिथुनम्
(१,१.३४ ) मिथुनेन प्रजाम्
(१,१.३४ ) प्रजया कर्म
(१,१.३४ ) कर्मणा तपस्
(१,१.३४ ) तपसा सत्यम्
(१,१.३४ ) सत्येन ब्रह्म
(१,१.३४ ) ब्रह्मणा ब्राह्मणम्
(१,१.३४ ) ब्राह्मणेन व्रतम्
(१,१.३४ ) व्रतेन वै ब्राह्मणः संशितो भवति
(१,१.३४ ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवमेतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ ३४ ॥
भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः
(१,१.३५ ) अन्तरिक्षेण यजुः समदधात्
(१,१.३५ ) यजुषा वायुम्
(१,१.३५ ) वायुनाभ्रम्
(१,१.३५ ) अभ्रेण वर्षम्
(१,१.३५ ) वर्षेणौषधिवनस्पतीन्
(१,१.३५ ) ओषधिवनस्पतिभिः पशून्
(१,१.३५ ) पशुभिः कर्म
(१,१.३५ ) कर्मणा तपस्
(१,१.३५ ) तपसा सत्यम्
(१,१.३५ ) सत्येन ब्रह्म
(१,१.३५ ) ब्रह्मणा ब्राह्मणम्
(१,१.३५ ) ब्राह्मणेन व्रतम्
(१,१.३५ ) व्रतेन वै ब्राह्मणः संशितो भवति
(१,१.३५ ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवमेतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ ३५ ॥
धियो यो नः प्रचोदयादिति सावित्र्यास्तृतीयः पादः
(१,१.३६ ) दिवा साम समदधात्
(१,१.३६ ) साम्नादित्यम्
(१,१.३६ ) आदित्येन रश्मीन्
(१,१.३६ ) रश्मिभिर्वर्षम्
(१,१.३६ ) वर्षेणौषधिवनस्पतीन्
(१,१.३६ ) ओषधिवनस्पतिभिः पशून्
(१,१.३६ ) पशुभिः कर्म
(१,१.३६ ) कर्मणा तपस्
(१,१.३६ ) तपसा सत्यम्
(१,१.३६ ) सत्येन ब्रह्म
(१,१.३६ ) ब्रह्मणा ब्राह्मणम्
(१,१.३६ ) ब्राह्मणेन व्रतम्
(१,१.३६ ) व्रतेन वै ब्राह्मणः संशितो भवति
(१,१.३६ ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवमेतं सावित्र्यास्तृतीयं पादं व्याचष्टे ॥ ३६ ॥