सम्ऽसम् इत् युवसे वृषन् अग्ने – Sam samit yubase brisan agne: RV 10/191
- संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इळस्पदे समिध्यसे स नो वसून्या भर ॥१॥
- सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
- समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥३॥ समानी व आकूतिः समाना हृदयानि वः ।
- समानमस्तु वो मनो यथा वः सुसहासति ॥४॥
हे “वृषन् कामानां वर्षितः “अग्ने “अर्यः ईश्वरस्त्वम् ।’ अर्यः स्वामिवैश्ययोः’ (पा. सू. ३. १. १०३) इति यत्प्रत्ययान्तो निपातितः । ‘ अर्यः स्वाम्याख्यायाम् ‘ ( फि. सू. १. १८) इत्यन्तोदात्तत्वम् । स त्वं “विश्वानि सर्वाणि भूतजातानि “संसम् । ‘प्रसमुपोदः पादपूरणे’ (पा. सू. ८. १. ६) इति समो द्विर्वचनम् । इच्छब्दोऽवधारणे । “आ समन्तात् सं “युवसे मिश्रयसि । देवेषु मध्ये त्वमेव सर्वाणि भूतजातानि वैश्वानरात्मना व्याप्नोषि। नान्य इत्यर्थः । किंच “इळः इडायाः पृथिव्याः “पदे स्थाने उत्तरवेदिलक्षणे । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः ‘ ( ऐ. ब्रा. १.२८) इति ब्राह्मणम् । तत्र त्वं “समिध्यसे ऋत्विग्भिः संदीप्यसे । “सः तादृशस्त्वं “नः अस्माकं “वसूनि धनानि “आ “भर आहर ॥
हे स्तोतारः यूयं “सं “गच्छध्वम् । संगताः संभूता भवत” ॥ ‘समो गम्यृच्छि” इत्यादिना गमेरात्मनेपदम् ॥ तथा “सं “वदध्वं सह वदत । परस्परं विरोधं परित्यज्यैकविधमेव वाक्यं ब्रूतेति यावत् । ‘ व्यक्तवाचां समुच्चारणे ‘ ( पा. सू. १. ३. ४८) इति वदेरात्मनेपदम्। “वः युष्माकं “मनांसि “सं “जानताम् । समानमेकरूपमेवार्थमवगच्छन्तु ॥ ‘ संप्रतिभ्यामनाध्याने ‘ (पा. सू. १. ३. ४६ ) इति जानातेरात्मनेपदम् ॥ “यथा “पूर्वे पुरातनाः “देवाः “संजानानाः ऐकमत्यं प्राप्ता हविर्भागम् “उपासते यथास्वं स्वीकुर्वन्ति तथा यूयमपि वैमत्यं परित्यज्य धनं स्वीकुरुतेति शेषः ॥
पूर्वोऽर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः । “एषाम् एकस्मिन् कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा “मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणं वा “समानः एकविधोऽस्तु । तथा “समितिः प्राप्तिरपि “समानी एकरूपास्तु ॥ ‘ केवलमामक° इत्यादिना समानशब्दात् ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तथा “मनः मननसाधनमन्तःकरणं चैषां “समानम् एकविधमप्यस्तु । “चित्तं विचारजं ज्ञानं तथा “सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु । अहं च “वः युष्माकं “समानम् एकविधं “मन्त्रम् “अभि “मन्त्रये । ऐकविध्याय संस्करोमि । तथा “वः युष्माकं स्वभूतेन “समानेन साधारणेन “हविषा चरुपुरोडाशादिना अहं “जुहोमि ॥ तृतीया च होश्छन्दसि’ (पा. सू. २. ३. ३) इति कर्मणि कारके तृतीया ॥ वषट्कारेण हविः प्रक्षेपयामीत्यर्थः ॥
हे ऋत्विग्यजमानाः “वः युष्माकम् “आकूतिः संकल्पोऽध्यवसायः “समानी एकविधोऽस्तु । तथा “वः युष्माकं “हृदयानि “समाना समानान्येकविधानि सन्तु । तथा “वः युष्माकं “मनः अन्तःकरणम् । प्रत्येकापेक्षयैकवचनम् । तदपि “समानमस्तु । “यथा “वः युष्माकं “सुसह शोभनं साहित्यम् “असति भवति तथा समानमस्त्वित्यन्वयः ॥ अस्तेर्लटि ‘बहुलं छन्दसि’ इति शपो लुगभावः ॥ ॥ ४९ ।।
सायणभाष्यम्
- 2050 and the Death of AI Chatbots: The Human Data Exhaustion Theory
- Colonel Sonam Wangchuk (1964–2026): Indian Army Officer and Kargil War Hero
- The 2026 US–Saudi Nuclear Deal: Civilian Nuclear Cooperation, Uranium Enrichment, and Middle East Security
- The Vedic Nation (राष्ट्र): Geography, People, Dharma and Sanskrit Language
- Regulations on Religious Affairs: Decree of the State Council of China No.426 (2004)
2020 CE 2021 CE 2022 CE 2023 CE 2024 CE 2025 CE 2026 CE Bail Bangladesh bengali China Constitution Constitutional law Current Affairs Current Headlines Dictionary Education EVIDENCE Featured Articles General Studies GlobalUpdates Hindu Religion INDIA (National) JUDGMENTS Jurisprudence Law of United Kingdom LEGAL Narendra Damodardas Modi News Notifications Pakistan RBI Russia Sanskrit Hindu Text Sarvarthapedia Area-7 (Society) Speech Speeches Strategy Supremecourtsaid Tanmoy Bhattacharyya Topnews United Nations USA USA Laws West Bengal